कीटः
From Wikipedia, the free encyclopedia
प्राणिवंशे सन्धिपदीनाम् एव बृहत् वर्ग: । अस्मिन् वर्गे नवति: प्रतिशत कीटप्रभेदा: भवन्ति । ८ लक्षात् अधिका: कीटप्रभेदा: कीटविज्ञानिभि: संशोधिता: तथापि सहस्राधिका: प्रभेदा: अज्ञाता: इति विज्ञानिभि: मन्यते । अगणिता: वैविध्यपूर्णा: कीटा: भूमौ सर्वत्र वस्तुं समर्था: । भूमौ तेषां जन्म ४० कोटिवर्षेभ्य: पूर्वेभ्य: अभवत् इति विश्वास: । न केवलं संख्यादृष्ट्या अपि च वर्ण-शरीररचनायां वैविध्यपूर्णा: ईदृशा: जीवा: प्राणिप्रपञ्चे अनन्या: । अतिशीतेषु ध्रुवप्रदेशेषु गहनेषु विपिनेषु हिमाच्छादितेषु शैलेषु शुष्केषु भूभागेषु गुहासु आकाशे च सर्वत्रैव कीटा: दृश्यन्ते । कीटेषु विद्यमानं वर्णवैविध्यं विस्मयकारक: । इन्द्रधनुषे विद्यमाना: सर्वे वर्णा: कीटलोके वर्तन्ते । कीटानां शरीरवर्ण: तेषां परिसरसादृश: भूत्वा शत्रुभि: सुरक्षां दास्यति ।कीटाः अनस्थिमन्तः अपदाः जीविन: । ५५०० कीटजातयः पृथिव्यां जीवन्ति । कीटेषु Megascolides australis वरिष्ठः अस्ति । ते सर्वत्र वसन्ति मरौ, सागरे, नदीषु च। केचन कीटाः अन्यजीविनां शरीरेषु जीवन्ति । ते कृमयः इति अपि कथ्यन्ते । मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति । ते भूमिम् ऊर्वराम् कुर्वन्ति । तेषां दशहृदयानि सन्ति ।