दत्तात्रेयः
From Wikipedia, the free encyclopedia
दत्तात्रेयः भारतीयसनातनधर्मीयैः त्रिमूर्तिनां ब्रह्माविष्णुमहेश्वराणाम् अवतारः भगवान् इति परिगणितः । दत्त इति पदस्य अर्थः अनुग्रहीतम् इति । स्वयम् आत्मानं त्रिमूर्तयः अत्र्यनसूयादम्पतीभ्यां दत्तवन्तः । एषः अत्रेः पुत्रः अतः आत्रेयः इति नाम अपि अस्ति । अतः त्रिमूर्तिभिः दत्तः अत्रेः पुत्रः इति भावेन दत्तात्रेयः इति ख्यातः । एतस्य विषये अधिकं ज्ञातुं गुरुचरित्रम् इति ग्रन्थः पठनीयः । ईश्वरीयशक्तित्रयस्य साकारमूर्तिः दत्तात्रेयः । अतः अस्य आराधनेन अपरिमितं फलम् अचिरेण लभते । भगवान् दत्तात्रेयः आजन्म ब्रहमचारी, सर्वव्यापी, सङ्कटे पतितं भजकं क्षिप्रं विमोचयति ।