भारतीयप्रौद्यौगिकसंस्थानम्
From Wikipedia, the free encyclopedia
आमुख:( परिचय:)
भारतीयप्रौद्योगिकसंस्थानानि (Indian Institutes of Technology) एतानि स्वायत्तानि प्रोद्योगिकानि संस्थानानि सन्ति । एतानि राष्ट्रे मुख्यसंस्थाननि इति परिगणितानि सन्ति । एतानि देशस्य आर्थिकसामाजिकाभिवृद्ध्यै साहाय्यमाचरेयुः। १९६१ तमवर्षस्य अधिनियमानुसारं सप्तस्थानेषु एतानि स्थापितानि । तानि स्थानानि खरगपुरम् ,नवदेहली, गुवहाटी , रूर्की मुम्बयी, चेन्नै कानपुरम् च । एतानि अतिरिच्य २०१० अधिशासनेन नूतनतया नवप्रौद्यौगिकसंस्थानानि स्थापितानि तानि भुवनेश्वरे, गान्धिनगरं , हैदाराबादनगरे , इन्दोरनगरे रूपनगर , पटना मण्डी च । नवमं तु बनारस् हिन्दुविश्वविद्यालयः। एतानि प्रवेशार्थं सामान्यपरीक्षां चालयन्ति ।
नामानि | संक्षिप्तनाम | स्थापनावर्षम् | नगरम् | राज्यम्/के.शासितप्रदेशः |
---|---|---|---|---|
खरगपुरम् | IITKGP | १९५१ | खरगपुरम् | पश्चिमबङ्गाल |
मुम्बयी | IITB | १९५८ | मुम्बयी | महाराष्ट्रम् |
चेन्नै | IITM | १९५९ | चेन्नै | तमिळ्नाडु |
कानपुर | IITK | १९५९ | कानपुर | उत्तरप्रदेशः |
नवदेहली | IITD | १९६१(*१९६३) | नवदेहली | देहली |
गुवहाटी | IITG | १९९४ | गुवहाटी | असम |
रूर्की | IITR | १८४७(*२००१) | रूर्की | उत्तराखण्डः |
महत्त्वं च प्रौद्योगिक्याः क्षेत्रे देशस्य प्रमुखसंस्थाः इति शासनस्य स्वशक्तयः, कर्तव्यानि, रूपरेखा च निर्धारयति।
अस्मिन् अधिनियमे सम्प्रति त्रयोविंशतिः IIT-संस्थाः सूचीबद्धाः सन्ति ।