तण्डुलाः
From Wikipedia, the free encyclopedia
अयं तण्डुलः भारते वर्धमानः कश्चन धान्यविशेषः । अयं सस्यजन्यः आहारपदार्थः अस्ति । अयं तण्डुलः आङ्ग्लभाषायां Rice इति उच्यते । भारते प्रायः सर्वत्र तण्डुलः उपयुज्यते एव । दक्षिणभारते तु भोजनम् ओदनं विना न भवति एव । ओदनं तण्डुलेन एव सज्जीक्रियते । इदानीं प्रायः जगति सर्वत्र तण्डुलस्य उपयोगः अस्ति एव । अनेन तण्डुलेन न केवलम् ओदनं क्रियते अपि तु पायसं, दध्यन्नं, चित्रान्नम्, आम्लान्नं (पुळियोगरे), दोसा, इड्ली, रोटिका, शष्कुली, यवागूः, पर्पटः, अवदंशः इत्यादयः खाद्यपदार्थाः निर्मीयन्ते । केरले तण्डुलेन “पुट्टु” इत्याख्यम्, आन्ध्रप्रदेशे “पोङ्गल्” इत्याख्यं खाद्यविशेषं निर्मान्ति । तण्डुले बहवः विधाः सन्ति । तेषां वर्णस्य, गात्रस्य, गुणस्य च अनुगुणं प्रभेदाः कृताः सन्ति । तेषु केचन :-
- १. रक्तशालितण्डुलः – रक्तवर्णीयः तण्डुलः । (कन्नडभाषायां “केम्पक्कि” इति वदन्ति ।)
- २. महातण्डुलः – महागात्रः तण्डुलः । (कन्नडभाषायां “दप्पक्कि” इति वदन्ति ।)
- ३. कलमशालितण्डुलः – अङ्कुरयुक्तः तण्डुलः । (कन्नडभाषायां “मोळके अक्कि” इति वदन्ति ।)
- ४. तूर्णकः – शीघ्रं वर्धमानः तण्डुलः ।
- ५. शकुनाहृततण्डुलः – पक्षीन् आकर्षति ।
- ६. सारामुखतण्डुलः – नद्याः जलेन वर्धितः तण्डुलः ।
- ७. दीर्घशुकतण्डुलः – दीर्घेभ्यः व्रीहिभ्यः निर्मितः तण्डुलः ।
- ८. रोध्रशूकतण्डुलः – रक्तवर्णेभ्यः व्रीहिभ्यः निर्मितः तण्डुलः ।
- ९. सुगन्धिकः – सुगन्धयुक्तः तण्डुलः ।
- १०. पुण्ड्रः – श्वेत–पीतमिश्रितवर्णीयः तण्डुलः ।
- ११. पाण्डुः – श्वेतवर्णीयः तण्डुलः ।
- १२. पुण्डरीकः – श्वेतकमलस्य वर्णस्य तण्डुलः ।
- १३. प्रमोदः – सुगन्धयुक्तः तण्डुलः ।
- १४. गौरः – गौरवर्णस्य तण्डुलः ।
- १५. सारिवा – स्त्रीसारपक्षिणः वर्णस्य तण्डुलः ।
- १६. काञ्चनः – स्वर्णस्य वर्णस्य तण्डुलः ।
- १७. महिषशूकः – कृष्णवर्णस्य स्थूलव्रीहेः तण्डुलः ।
- १८. दूषकः –
- १९. कुसुमाण्डकः – पुष्पस्य अन्तः विद्यमानस्य बीजस्य आकारकः तण्डुलः ।
- २०. लाङ्गलः – हलस्य आकारकः तण्डुलः ।
- २१. लोहवालः – अयसः गन्धयुक्तः तण्डुलः ।
- २२. कर्दमः – पङ्कस्य वर्णस्य तण्डुलः ।
- २३. शितभीरुकः - उष्णवातावरणे वर्धमानः तण्डुलः ।
- २४. पतङ्गः – अग्नेः वर्णस्य तण्डुलः ।
- २५. तपनीयः – अग्नौ पचनेन स्वर्णवर्णं प्राप्तः तण्डुलः ।
- एतान् विहाय इतोऽपि बहुविधाः तण्डुलाः सन्ति एव । एते केचन प्रसिद्धाः तण्डुलप्रभेदाः तावदेव ।