भारतस्य राष्ट्रपतिः
From Wikipedia, the free encyclopedia
भारतस्य राष्ट्रपतिः ( ( शृणु) /ˈbhɑːrətəsjə rɑːʃhtrəpətɪhɪ/) (आङ्ग्ल: The President of India, हिन्दी: भारतीय राष्ट्रपति) भारतस्य प्रप्रथमः नागरिकः । राष्ट्रपतिपदं भारतगणराज्यस्य सर्वोत्कृष्टं, सम्मानितं च पदमस्ति । भारतीयशस्त्रसेनानां (भूसेना-नौसेना-वायुसेनानां) प्रमुखः सेनापतिरपि राष्ट्रपतिः एव । देहल्यां स्थिते राष्ट्रपतिभवने राष्ट्रपतिपदारूढस्य निवासः भवति । तस्य राष्ट्रपतिभवनस्य अपरे नामनी 'वायस् रीगल हाऊस्', 'रायसीना हिल' इति । एकस्याः व्यक्तेः राष्ट्रपतित्वेन अधिकाधिकं द्विवारमेव चयनं भवितुम् अर्हति । एतावत् पर्यन्तं प्रप्रथमः राष्ट्रपतिः डा. राजेन्द्र प्रसाद एव वारद्वयं राष्ट्रपतित्वेन कार्यम् अकरोत् ।
भारतगणराज्यम् राष्ट्रपतिः | |
---|---|
सम्बोधनरीतिः |
माननीयः राष्ट्रपतिमहोदयः (within India) Honourable President of India (outside India) |
निवासः | राष्ट्रपतिभवनम् |
नियोगकर्ता | भारतस्य निर्वाचकमण्डलम् |
कार्यकालः | पञ्चवर्षाणि। कार्यालये न कोऽपि अवधः निश्चितः। |
आदिपदाधिकारी |
राजेन्द्रपसादः २६ जनवरी १९५० |
पदसंरचना |
भारतीयसंविधानम् 26, 1950; 74 years ago (1950-01-26) |
उप-पदाधिकारी | उपराष्ट्रपतिः |
वेतनम् | ₹१,५०,००० (US$२,२२९) (प्रतिमासम्)[1][2] |
जालस्थानम् | भारतस्य राष्ट्रपतिः |
भारतगणराज्यं बहु दीर्घकालात् ब्रिटिश-जनानाम् आधिपत्यान्तर्गतमासीत् । अतः स्वस्य शासनकाले ते ब्रिटेन-देशस्य सभ्यता-न्यायौ भारतीयजनानामुपरि बलेन आरोपितवन्तः । प्रारम्भे तु बहवः तेषां विरोधमकुर्वन् । परन्तु काले व्यतीते (अद्यापि) तेषां सभ्यता-न्याययोः भारते अनुकरणं प्रबलं जातम् । एवम् अस्माकं संविधानस्य अपि अभवत् । भारतस्य न्यायव्यवस्थायां ब्रिटेन-देशस्य संविधानात् बहवः नियमाः अङ्गीकृताः दरीदृश्यन्ते । भारतस्वतन्त्रतायाः यदा घोषणा अभवत्, तदा भारतीयसंविधाननिर्माणस्य आवश्यकता उद्भूता । भारतस्य संविधानं निर्मातुं संविधानसमितेः रचना अभूत् । भारतस्य संविधाने प्रधानमन्त्रिपदेन सह राष्ट्रपतिपदस्यापि प्रावधानं संविधानसमित्या निश्चितम् । राष्ट्रपतिः भारतस्य प्रप्रथमः नागरिकः, शस्त्रसेनानां प्रमुखसेनापतिः च इति संविधाने उल्लिखितम् । सैद्धान्तिकदृष्ट्या राष्ट्रपतेः बहवः अधिकाराः सन्ति ।