मौलाना अबुल कलाम आजाद
भारतस्य प्रथमं शिक्ष्यामन्त्री / From Wikipedia, the free encyclopedia
मौलाना अबुल् कलाम् आज़ादः अथवा अबुल् कलाम् गुलम् मुहियुद्दीन् (बाङ्गला: আবুল কালাম মুহিয়ুদ্দিন আহমেদ আজাদ) कश्चित् भारतीयः मुसल्मानविद्वान् । एषः कविः लेखकः पत्रकर्ता भारतस्वातन्त्र्यस्य योद्धा अपि आसीत् । भारतस्य स्वातन्त्र्योत्तरं महत्वपूर्णः राजनीतिज्ञः अभवत् । एषः महात्मनः गान्धेः सिद्धान्तान् अनुमोदयन्ति स्म । हिन्दुमुसल्मानयोः एकतार्थं कार्याणि कृतवान् । पृथक् मुसल्मानराष्ट्रनिर्माणस्य विषयस्य विरोधिषु महम्मदीयजनेषु अन्यतमः आसीत् । खिलापत् आन्दोलने अस्य भूमिका महत्वपूर्णा आसीत् । धरासन् सत्याग्रहस्य क्रान्तिकारी प्रतिनिधिः आसित् । क्रि.श. १९४०तमे वर्षे कङ्ग्रेस् अध्यक्षः सन् भारतं त्यजतु आन्दोलनं चालितवान् । कङ्ग्रेस् सङ्घटनस्य अन्यनायकाः इव अस्यापि वर्षत्रयस्य कारागारबन्धनम् अभवत् । क्रि.श.१९२३तमे वर्षे युवा मौलाना भारतीयन्याषनल् कङ्ग्रेस् सङ्घटनस्य अध्यक्षः अभवत् । क्रि.श. १९४०तमवर्षतः क्रि.श. १९४५पर्यन्तं पुनः काङ्ग्रेस् अध्यक्षः अभवत् । भारतस्य स्वातन्त्र्योत्तरं सांसदरूपेण निर्वाचितः भारतस्य प्रथमविद्यामन्त्री अभवत् । विद्यायानुदानायगोस्य रचनम् अस्य अविस्मरणीयकार्येषु अन्यतमम् ।
मौलाना अबुल् कलाम् आजाद् Abul Kalam Azad | |
---|---|
Minister of Education, India | |
In office 15 August 1947 – 2 February 1958 | |
Prime Minister | Jawaharlal Nehru |
व्यैय्यक्तिकसूचना | |
Born |
(१८८८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-११)११ १८८८ Mecca, Hejaz Vilayet, Ottoman Empire (now Saudi Arabia) |
Died |
२२ १९५८(१९५८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-२२) (आयुः ६९) Delhi, India |
Signature |