शिवकुमारस्वामी
From Wikipedia, the free encyclopedia
कर्णाटकरत्नः डा. शिवकुमारस्वामी(०१ एप्रिल् १९०७-२१ जनवरी २०१९) (कन्नड: ಶಿವಕುಮಾರ ಸ್ವಾಮಿಗಳು, आङ्ग्ल: Shivakumara Swamiji) तुमकूरुमण्डलस्य सिद्धगङ्गामठस्य मठाधिपतिः । एषः त्रिविध(अन्नम्,अक्षरं,ज्ञानं)दासोहदाता । द्वादशस्य (१२) शतमानस्य युगपुरुषस्य, क्रान्तिकारिणः बसवण्णनामकस्य 'कायकवे कैलास' इत्यस्य वचनस्य, नित्यदासोहतत्त्वस्य च कैङ्कर्ये अस्य प्रवृत्तिः । ०३/०१/१९३० तमे दिनाङ्के श्रीमठस्य दायित्वं स्वीकृत्य तद्दिनात् मठस्य, वीरशैवधर्मस्य, समाजस्य च उद्धारार्थं एषः निरन्तरं श्रममाणः अस्ति ।
त्वरिततथ्यानि शिवकुमारस्वामीಶಿವಕುಮಾರ ಸ್ವಾಮಿಗಳು, जन्म ...
शिवकुमारस्वामी ಶಿವಕುಮಾರ ಸ್ವಾಮಿಗಳು | |
---|---|
शिवकुमारस्वामी, भारतस्य पूर्वतनराष्ट्रपतिना डा अब्दुल् कलामवर्येण सह | |
जन्म |
ಶಿವಣ್ಣ (१९०७-२-२) १, १९०७ (आयुः ११७) भारतम् |
मृत्युः | २१ जनवरी २०१९ (आयुः १११) |
शिक्षणस्य स्थितिः | Central College of Bengaluru |
वृत्तिः | श्री सिद्धगङ्गा एजुकेशन् सोसैटी ( Sree siddhaganga education society) संस्थायाः संस्थापकः |
पिदधातु
देशस्य, समाजस्य च प्रगतिविषये अस्य बहु आदरं वर्तते । आगामिपरम्परायाः अभिवृद्धये कृतसङ्कल्प एषः । समाजस्य अनेकानां गण्यानां बाल्यजीवनस्य परिवर्तनाय एषः कारणीभूतः । श्रीमठे १०,००० विद्यार्थिभ्यः आश्रयं दत्त्वा तेभ्यः त्रिविधदासोहं सततं यच्छन् अस्ति एषः ।