वैशाखी पर्व
From Wikipedia, the free encyclopedia
वैशाखी पर्व (( ( शृणु) /ˈvɛɪʃɑːkhiː pərvə/)) (हिन्दी: बैसाखी, आङ्ग्ल: Vaisakhi) भारतस्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व उत्तरभारतस्य राज्येषु, तत्रापि मुख्यत्वेन पञ्जाबराज्ये आचर्यते ।
वैशाखी पर्वणः अपरं नाम कृषिपर्व इति । भारतस्य उत्तरीयराज्येषु यदा सस्यानि परिपक्वानि भवन्ति तदा कृषकाः उत्साहेन इमम् उत्सवम् आचरन्ति । कृषकाः उत्सवे नृत्यन्ति गायन्ति च । भगवतः स्मरणं कुर्वन्ति । अस्मिन् दिवसे मृदङ्गनादं कृत्वा कृषकाः आनन्दम् अनुभवन्ति । यस्मिन् दिने सूर्यः मेषराशिं प्रविशति तस्मिन् दिने इदं पर्व आचर्यते । पञ्जाबराज्यस्य लोकनृत्यस्य भाङ्गडा इति नाम । अतः पञ्जाबराज्ये अस्मिन् पर्वणि कृषकाः भाङ्गडा-नृत्यं कुर्वन्ति ।