कोलोराडो
From Wikipedia, the free encyclopedia
कोलोराडो संयुक्तराज्य-अमेरिका देशस्य राज्यम् अस्ति। राज्यस्य राजधानी डेन्वर् नगरम्। राज्यस्य मुख्यः भागः दक्षिणराकी पर्वत श्रेणी प्रदेशे स्थितः। राज्यस्य नाम्नः आधारः कोलोराडो नदी। राज्यस्य उत्तरदिशि ययोमिंग्, पश्चिमदिशि यूटा, दक्षिणदिशि नव मेक्सिको, पूर्व दिशि नेब्रास्का राज्यानि स्थितानि सन्ति। कोलोराडोप्रदेशे अनेके पर्वताः, वनानि, नद्यः च सन्ति। राज्यपालः डेमोक्राट् पक्षस्य जान् हिकेन्लूपर्। राज्यस्य प्रधानं विमाननिस्थानकं डेन्वर् अन्तर्राष्ट्रीयविमाननिस्थानकम्।