तमिळनाडुराज्यम्
From Wikipedia, the free encyclopedia
तमिऴनाडॖराज्यम् (तमिऴ्: தமிழ்நாடு) भारतस्य दक्षिणभागे विद्यमानं राज्यम् अस्ति । भारतदेशे सुप्रसिद्धं तमिऴ्नाडॖराज्यं विस्तारदृष्ट्या जनसङ्ख्यादृष्ट्या च एकादशे स्थाने अस्ति । सहस्रकिलोमीटरविस्तृतः सागरतीरप्रदेशः अस्ति । बङ्गालोपसागरतीरे, दक्षिणभागे हिन्दुमहासागरतीरे च अनेकानि देवस्थानानि तीर्थक्षेत्राणि च सन्ति । पश्चिमे अरब्बीसमुद्रः अस्ति । कावेरीनदीतीरे च अनेकदेवस्थानानि पुण्यक्षेत्राणि च सन्ति । तमिऴ्नाडॖराज्यं देवालयानां राज्यम् इति च कथयन्ति । प्राचीनशौल्या अत्र पूजाराधनोत्सवादयः प्रचलन्ति । जनाः प्रतिदिनं देवालयम् आगच्छन्ति । इति तु सर्वसाधारणः विषयः । परम्परया अत्र जीवनपद्धतिः यथापूर्वमेव अस्ति । द्राविडसंस्कृतिः अत्र दृष्टिगोचरा भवति । मुख्यतया तमिऴ्भाषया संवादं कुर्वन्ति । क्वचित् पूजासु अपि तमिळुभाषायाः प्रयोगं कुर्वन्ति। तमिऴ् मुख्यभाषा अस्ति ।
तमिऴ्नाडॖराज्यम् தமிழ்நாடு |
|||
---|---|---|---|
— राज्यम् — | |||
|
|||
ध्येयवाक्यम्: सत्यमेव जयते | |||
राज्यगीतम्: तमिऴ् तायि वाऴ्त्तॖ | |||
भारतस्य भूपटे तमिऴनाडॖराज्यम् | |||
तमिऴ्नाडॖराज्यस्य भूपटः | |||
Coordinates: 13.09°उत्तरदिक् 80.27°पूर्वदिक् / १३.०९; ८०.२७ | |||
देशः | भारतम् | ||
स्थापिताम् | २६ जनवरी १९५० | ||
राजधानीः | चेन्नै | ||
बृहदतम्ननगरः | चॆन्नै | ||
मण्डलानि | ३३ | ||
सर्वकारः | |||
• राज्यपालः | बनवारीलाल पुरोहित | ||
• मुख्यमंत्रीः | ऎम्.के स्टॅलिन्, द्राविड मुन्नेऱ्ऱ कऴगम् | ||
• Legislature | Unicameral (234 seats) | ||
• उच्चन्यायः | मद्रासउच्चन्यायः | ||
विस्तीर्णता | |||
• संहतिः | १,३०,०५८ km२ | ||
क्षेत्रविस्तारः | ११ | ||
जनसङ्ख्या (2011) | |||
• संहतिः | ७२,१३८,९५८ | ||
• रैङ्क् | ७ | ||
IST (UTC+05:30) | |||
ऐ एस् ओ ३१६६ कोड् | IN-TN | ||
HDI | 0.570 (medium) | ||
HDI rank | 6th (2011) | ||
साक्षरताः | 80.3% (2011) | ||
आधिकारिकभाषाः | तमिळभाषा | ||
जालस्थानम् | tn.gov.in |