ब्राह्मीलिपिः
From Wikipedia, the free encyclopedia
ब्राह्मीलिपिः(Brāhmī Script) भारतदेशस्य एका पुरातनी लिपि: अस्ति। इदं प्राचीन सरस्वतीलिपे: परिवर्तितं रूपम् च खरो। एतत् भारतस्य दक्षिणएशियायाः च लिपिनां माता अस्ति। सम्राट अशोक: एतत् लिपौ प्राकृतभाषाम् अलिखत्।
त्वरिततथ्यानि ब्राह्मीलिपिः, प्रकारः ...
ब्राह्मीलिपिः | |
---|---|
ब्राह्मीलिप्यां शिलालेखः | |
प्रकारः | अबुगिडा लेखनप्रकारः |
भाषा(ः) | संस्कृतम्, तोचेरियन्, प्राकृतभाषा |
स्थितिकालः | प्रायः क्रैस्तपूर्वं ६००तः क्रैस्तवीय ५०० शतकम् |
जननस्रोतः |
प्रोटो-सिनेटिक् वर्णाः
|
जन्यलिपयः | गुप्तलिपिः,पल्लवलिपिः, तथा वह्यः भारतीयलिपयः |
समकालीनलिपिः | खरोष्ठीलिपिः |
लेखनगतिः | वर्णानां वामतो गतिः |
युनिकोड सूची | Unicode.org chart |
पिदधातु
प्रायः क्रिस्तोः पूर्वं षष्ठ- पञ्चमशताब्दाभ्यां प्रागेव उपयुज्यमाना लिपिरियम् इदानीमुपलब्धासु लिपिषु प्राचीनतमा विद्यते । प्राचीनावशेषेषु अशोककालीनानि शिलाशासनानि प्रामुख्यं वहन्ति, ब्राह्मीलिप्या निबध्दत्वात् । ब्रह्मणा सृष्टा इयं लिपिः इति नः श्रध्दा । उक्तञ्च –
नाकरिष्यद्यदि ब्रह्मा लिखितं चक्षुरुत्तमम् । तत्रेयमस्य लोकस्य नाभविष्यच्छुभा गतिः ॥ - (नारदस्मृतिः ४-७०)