भक्तिः
From Wikipedia, the free encyclopedia
`भक्तिरेव मोक्षसाधनसामग्र्यां गरीयसी’ इति शङ्करभगवत्पादीयं वचनं भक्तेरावश्यकत्वं साधानन्तरेभ्यस्तस्याः वैशिष्ट्यं च प्रद्योयतयति । आह च भगवान् कृष्णः –‘भक्त्या त्वनन्यया शक्यः अहमेव विधोऽर्जुन’ (भ.गी.११.५४) इति । ‘न जन्म नूनं महतो न् सौभगं ……. भक्त्या तुतोष भगवान् ननु यूथपाय ’ (श्रीमद्भा. ७.९.९) इति ‘सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा’ (श्रीमद्भा.११.२०.३३) इति च भागवतवचनमप्येतमेवार्थं दृढयति । एवं च साधकैर्वश्यं भक्तिः सम्पादनीया इत्युक्तं भवति ।
तथापि भक्तिस्वरुपनिरुपणविषयेऽस्ति विप्रतिपत्तिः दर्शनाचार्याणाम् । एवं ज्ञानेनैव मुक्तिरिति वादोऽपि दृश्यते । अत्र प्रमाणानि-‘तमेवं विदित्वाऽतिमृत्युमेति’ ‘तमेवं विद्वान्’ इत्यादीनि । मुक्तेः कर्मज्ञानं च उभयमपि हेतुभूतमित्यपि केचन प्रवदन्ति ।
अन्ये पुनर्वदन्ति – न भक्तिरेव मुक्तिसाधिका अपि तु कामद्वेषादिभिरपि भवति बन्धध्वंसः । अत एवोक्तं भागवते- ‘गोप्यः कामात् भयात् कंसः द्वेषात् चैद्यादयो नृपाः (श्रीमद्भा.७.१.३२) इति । अतोऽत्र विप्रतिपत्तिबाहुल्यात् विमर्शः कर्तव्यः ।