भगवद्गीता
भारतस्य प्रमुखः प्रेरणाग्रन्थः / From Wikipedia, the free encyclopedia
गीतोपदेशः भगवता गीता भगवद्गीता। एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते। श्रीकृष्णः अत्र उपदेशकः श्रोता अर्जुनः। वैदिकसनातनवर्णाश्रमधर्मावलम्विनां हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता। गीतायाम् अष्टादश अध्यायाः सन्ति। अस्याः मोक्षशास्त्रम् ,ब्रह्मविद्या गीतोपनिषत्, इत्यादिनि नामानि अपि सन्ति। प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते। कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः।