वेदाङ्गम्
From Wikipedia, the free encyclopedia
वेदाङ्गं वेदाध्यनस्य अधिकारप्राप्त्यै अध्येतव्यांशः। वेदाङ्गानि षड् सन्ति। अङ्गमित्यस्य पदस्य व्युत्पत्तिः " अङ्ग्यते ज्ञायते अनेन इत्यङ्गम्" इत्यस्ति । वेदानां भाषा भावश्च दुरूहौ इत्यतः वेदार्थावबोधाय वेदाङ्गानाम् अपेक्षा भवति । अत एव - "षडङ्गो वेदोध्येतव्यः, साङ्गं वेदमधीत्यैव" इत्यादयः उक्तयः जाताः ।
"शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।
ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु"॥
इत्यनेन शिक्षा, कल्पः, व्याकरणं, निरुक्तं, छन्दः, ज्योतिषं च वेदाङ्गानि इति ज्ञायते । एतानि षट् शास्त्राणि इत्यपि प्रसिद्धानि सन्ति। एतेषां वेदाङ्गानाम् उल्लेखः गोपथब्राह्मणे बोधायनधर्मसूत्रे गौतमधर्मसूत्रे रामायणसदृशप्राचीनग्रन्थेषु च उपलभ्यते ।
"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश" ।
इत्यनेन चतुर्दशसु विद्यासु वेदाङ्गानां स्थानं प्रथमम् अस्ति ॥
वेदोपि कश्चित्पुरुषकल्पः । अतः तस्य वेदपुरुषस्य किमङ्गं किमु शास्त्रमिति उच्यते यथा-
- "छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्योतिषं चक्षुषी च ।
- शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं वेदस्याङ्गान्येवमाहुर्मुनीन्द्राः ॥"
- एवं साङ्गवेदज्ञानम् एव पूर्णत्वं पूज्यत्वं च ददाति ॥
व्याकरणं वेदस्य मुखं इतिवत् ज्योतिषं वेदस्य चक्षुः इति स्तूयते।