हरिदासाः
From Wikipedia, the free encyclopedia
हरिदासाः (Haridasa) नाम हरेः दासाः। हरिः नाम भगवान् भगवदः दास्य भावः येषु जागरितः भवति ते हरिदासाः भवन्ति । भारतस्य दक्षिणे विद्यमाने कर्णाटकराज्ये काचित् विशिष्टा परम्परा अस्ति हरिदासपरम्परा इति । दैवभक्तिं जागरयन्तः अनेन मार्गेण एव इहपरयोः आनन्दः प्रप्तुं साध्यः अनेन मार्गेणैव सायुज्यमपि प्राप्तुं शक्यते इति दर्शितवन्तः । एते भक्तिमार्गस्य प्रवर्तकाः इति एव ख्याताः । एतत् हरिदासभक्ताः अन्दोलनेन भारतस्य सांस्कृतिकेतिहासस्य श्रेष्ठं परिवर्तनम् आनीतवन्तः । ६शतककाले सन्तः योगिनः विशेषतः दक्षिणभारते संस्कारस्य प्राचीनतत्त्वस्य कलायाः च निरूपणे अधिकं सहाय्यं समाचरन् । एते हरिदासाः दक्षिणभारतस्य राज्यानि प्रशसितानां शसने अपि प्रभावं कृतवन्तः । [1] अयं हरिदासपथः १३-१४तमशतकेषु आन्दोलनस्य रूपम् अवाप्नोत् । तदा कर्णाटके विजयनगरसाम्राज्यस्य प्रशासनस्य ऊर्जितः कालः । अस्य आन्दोलनस्य प्रधानः उद्देशः मध्वाचार्यस्य तत्त्वशास्त्रं सामान्यजनेषु दाससाहित्यरूपेण प्रसरणम् । [2] श्रीपादरायः व्यासतीर्थः पुरन्दरदासः कनकदासः इत्यादयः प्रमुखाः हिन्दुधर्मस्य तत्त्वज्ञानिनः, कवयः, विद्वासः महत्तमं पात्रम् निरवहन् । [2] आन्दोलनमेतत् कर्णाटकराज्ये आरब्धं दक्षिणभारतस्य अन्यराज्येषु अपि विकीर्णं चेदपि क्रि.श.१२शतके बसवण्णः इत्यादिभिः आरब्धस्य वीरशैवान्दोलनस्य, क्रि.श.दशमशतकस्य तमिळुनाडुराज्यस्य आळ्वार् सताम् आन्दोलनस्य च फलम् एव । [3][4] अग्रे वल्लभाचार्यः गुरुः चैतन्य मध्वाचार्यः इत्यादीनां बोधनैः प्रभाविताः जनाः । तस्य भक्ताः विश्वे सर्वत्र इस्कान्(ISKCON) हरिभक्त्यान्दोलनम् आरब्धम् । [5] हरिदाससन्तः अधिकाः परिव्राजः गायकाः च भवन्ति स्म । इदमान्दोलनं ब्राह्मणैः एव आरब्धा चेदपि समाजस्य सर्ववर्गीयानं योगदानम् अत्र अस्ति । .[6] कन्नडभक्तिसाहित्यक्षेत्रे हरिदासान्दोलनस्य योगदानं तु अपरिमितम् अस्ति ।[7]