कुमारिलभट्टः
From Wikipedia, the free encyclopedia
कुमारिलभट्टः मीमांसकशिरोमणिः आसीदयं भाट्टसम्प्रदायस्य प्रवर्तकः । अस्य पिता आसीद् ‘यज्ञेश्वरभट्टः’, मातासीत् ‘चांगुणा’ इति । शबरस्वामिनामनन्तरं शबरभाष्य विवेचनरतानां वार्तिकटीकादिग्रन्थानां प्राधान्येन द्वे शाखे प्रसृते, ययोरेका भाट्टमतमिति नाम्ना ख्यातिमगात् अपरा च प्राभाकरमतं गुरुमतं वेति नाम्ना प्रसिद्धिमुपागता। यद्यपि ‘मुरारेस्तृतीयपन्थाः’ इति तृतीयसम्प्रदायो विद्यते तथापि प्राधान्यात् द्वे एव। श्रूयते यत् बौद्धमतखण्डनार्थं प्रायेण धर्मपालात् बौद्धतत्त्वस्य गभीरमध्ययनं कुमारिलः कृतवान्। स्पष्टञ्चैतत् माधवकृतशङ्करदिग्विजये−
‘अवादिषं वेदविघातदक्षैस्तन्नाशकं जेतुमबुध्यमानः।
तदीयसिद्धान्तरहस्यवार्धीन् निषेध्यबोधाद्धि निषेध्यबाधः॥’ [1] इति।
त्वरिततथ्यानि कुमारिलभट्टः ...
कुमारिलभट्टः |
---|
पिदधातु