छान्दोग्योपनिषत्
From Wikipedia, the free encyclopedia
छान्दोग्योपनिषत्, दशसु प्रमुखोपनिषत्सु अन्यतमा अस्ति । इयं हयग्रीवरूपीभगवतः मुखात् आविर्भूतानि पवित्रवाक्यानि । सर्वासाम् उपनिषदां मुख्याभिमानिनी लक्ष्मीदेवी स्वस्य पतिं श्रीहरिम् अत्र ओमित्यक्षरमुद्गीथमुपासीत इत्येवम्प्रकारेण स्तुतवती अस्ति इति आचार्याः उपोद्घाते उल्लिखितवन्तः सन्ति ।
- हयग्रीवोद्गीतवाक्यै रमादेवी रमापतिम् ।
- ओमित्येतन्मुखैर्देवमस्तुवत् सामवेदगैः ॥ इति महासंहितायाम् । (छा उ भाष्यम् १-१-१)
इयम् उपनिषत् सामवेदस्य छान्दोग्यब्राह्मणस्य कश्चन भागः वर्तते । इयं गद्यरूपेण वर्तते इत्यतः अत्र छन्दः नास्ति । अस्याः उपनिषदः प्रथमद्रष्टा हयग्रीवभगवान् अस्याः प्रधानऋषिः । रमादेवी द्वितीया ऋषिः । अनन्तगुणपरिपूर्णः, शेषशायी रमापतिः अस्याः प्रतिपाद्यदेवता ।
- हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमापतिम् ।
- अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ (छा उ भाष्यम् १-१-१)
दशसु प्रमुखोपनिषत्सु छान्दोग्योपनिषदः वैशिष्ट्यं वर्तते । अस्याः उपनिषदः भाष्यं श्रीशङ्कराचार्यैः श्रीमध्वाचारैश्च लिखितम् अस्ति ।