आदिशङ्कराचार्यः
From Wikipedia, the free encyclopedia
शङ्कराचार्यः (मलयाळम्: ശങ്കരാചാര്യൻ,शङ्कराचार्यन्) (क्रिस्ताब्दम् ७८८ - क्रिस्ताब्दम् ८२०), यस्यान्ये अभिधाने शङ्करभगवत्पादाचार्यः तथा च आदिशङ्कराचार्यः इति । आदिशङ्कराचार्यः कश्चन भारतीयः दार्शनिकः आसीत्, येन अद्वैतवेदान्तस्य सिद्धान्तः दृढतया प्रोद्बलितः । अद्वैतवेदान्तः वेदान्तस्य उपसंप्रदायः वर्तते । उत्तरमीमांसा इत्यपि एतस्य अपरं नाम । अद्वैतवेदान्तानुसारं जीवब्रह्मणोः अभेदः ब्रह्मणः निर्गुणत्वञ्च उच्यते । शङ्करः समग्रभारतवर्षस्य यात्रां कृत्वा स्वकीयं दर्शनं प्रवचनेभ्यः शास्त्रार्थेभ्यश्च प्रसारितवान् । सः दशनामी इति अद्वैतसंप्रदायस्य संघटनकर्ता मन्यते, तथा च षण्मत इति पूजनपरम्परायाः संस्थापकः मन्यते ।
शङ्कराचार्यः । | |
---|---|
सशिष्यश्रीशङ्कराचार्यः । | |
जन्मतिथिः | क्रि.श. ७८८ । |
जन्मस्थानम् | कालटि, केरळराज्यम्, भारतम् |
पूर्वाश्रमनाम | शङ्करः |
मृत्युतिथिः | क्रि.श. ८२० । |
मृत्युस्थानम् | केदारे अभ्यगात्,हिमाचलप्रदेशः भारतम् |
गुरुः/गुरवः | गोविन्दभगवत्पादः |
तत्त्वचिन्तनम् | अद्वैतम् । |
सम्मानाः | भगवत्पादः, अद्वैतसिद्धान्तप्रतिष्ठापनाचार्यः । |
साहित्यिककृतयः | ब्रह्मसूत्रभाष्यम्, उपनिषद्भाष्यम्, गीताभाष्यम्, स्तोत्रकाव्यानि । |
संस्कृतेन रचिताः तस्य कृतयः, याः सर्वाः अपि अद्यापि प्राप्यमानाः, अद्वैतवेदान्तसिद्धान्तस्थापनविषयकाः सन्ति । सः उपनिषद्ब्रह्मसूत्रसम्मतस्य संन्यासस्य महत्तामपि प्रतिपादितवान्, यस्मिन् काले मीमांसा संप्रदायेन दृढं कर्मकाण्डं स्थापितमासीत् संन्यासश्च निन्दित: आसीत् । शङ्करः ब्रह्मविषये उपनिषदः प्रामाण्यं प्रोक्तवान् । तथा च ब्रह्मसूत्राणाम्, उपनिषदां, भगवद्गीतायाः च भाष्यं लिखितवान् । कर्मवादस्स्य प्रवर्तकेन मण्डनमिश्रेण सह ज्ञानवादं मण्डयित्वा जितवान् ।
आचार्यशङ्करः अनेकान् ग्रन्थानपि लिखितवान् तेषु विवेकचूडामणिः, उपदेशसहस्री प्रपञ्चसारश्च प्रमुखाः सन्ति
तस्याद्वैतवेदान्तसिद्धान्तो माध्यमिकबौद्धसिद्धान्त इव प्रतीयते। यथाद्वैतवादः तथैव शून्यवादो वर्तते, न तस्मात् भिन्नः। अतः केचित् तं प्रच्छन्नबौद्धं कथयन्ति