जैमिनिः
From Wikipedia, the free encyclopedia
भगवान् महर्षिर्जैमिनिर्जनिं लब्ध्वा परमकारुणिको श्रुत्यर्थतात्पर्यनिर्णये विभ्रान्तपिपासूनामाकाङ्क्षातृष्णाशान्तये कौत्सकुलमलञ्चकार। महाभागोऽयं भगवत्कृष्णद्वैपायनपाराशर्यव्यासशिष्यः आसीत्। तदुद्धृतं नीलकण्ठशास्त्रिणा ‘Jaimini and Badarayana’ इत्याख्ये निबन्धे− ‘सोऽयं प्राजापत्यो विधिः ताम् इमां प्रजापतिः बृहस्पतये प्रोवाच, बृहस्पतिर्नारदाय, नारदो विश्वकसेनाय, विश्वकसेनो व्यासाय पाराशर्याय, व्यासः पाराशर्यो जैमिनये, जैमिनिः पौष्पिण्ड्याय पाराशर्यायणाय...’[1] इति। व्यासः स्वशिष्याय जैमिनये सामवेदं प्रददौ इति श्रीमद्भागवताद्विज्ञायते−
‘पराशरात्सत्यवत्यामंशांशकलया विभुः।
अवतीर्णो महाभागो वेदञ्चक्रे चतुर्विधम्॥
तेषां स चतुरः शिष्यान् उपाहूय महामतिः।
एकैकां संहितां ब्रह्मन् एकैकस्मै ददौ विभुः॥
साम्नां जैमिनये प्राह ततः छन्दोगसंहिताम्॥’ (श्रीमद्भागवतम्- २.६.४९,५५) इति।
महर्षिरयं जनमेजयायोजितसर्पसत्रस्योद्गाता आसीदिति भारताज्ज्ञायते−
‘उद्गाता ब्राह्मणो वृद्धो विद्वान् कौत्सोऽथ जैमिनिः’ (महाभारतम्- १.५३.६) इति।