पतञ्जलिः
From Wikipedia, the free encyclopedia
भगवान् पतञ्जलिः ( ( शृणु) /ˈbhəɡəvɑːnə pətəŋdʒəlɪhɪ/) (हिन्दी: पतञ्जलि मुनि, आङ्ग्ल: Patañjali) योगसूत्रस्य रचनाकारः । माहेश्वरसम्प्रदायान्तर्गतं पाणिनीयं नव्यव्याकरणंत्रिमुनि-व्याकरणम् इत्युच्यते । त्रिषु मुनिषु महामुनिः पतञ्जलिः अप्यन्यतमः इति जगतीतले को वा न विजानीते? भगवान् पतञ्जलिः पाणिनीयाष्टके महतीं व्याख्यां व्यलेखीत् । सेयं व्याख्या महाभाष्यम् इत्याख्या जगति प्रसिद्धाऽस्ति । एषः पतञ्जलिः विश्वविश्रुतः भाषाविदासीत् । महाभाष्यं व्याकरणसन्निभं कठिनं दुरूहञ्च विषयं सारल्येन ज्ञापयितुं समर्थः इत्यत्र सर्वेऽपि विद्वांसः एकमतयः । समस्ते वैयाकरणसमुदाये महाभाष्यं महताऽदरेण प्रामाणिकत्वेन च परिगण्यते ।
भगवान् पतञ्जलिः पतञ्जलि मुनि Patanjali हरिद्वारे पतञ्जलियोगपीठे पतञ्जलिशिल्पम् | |
---|---|
रचनाः |
|
प्रसिद्धिः | योगसूत्रकारः, महाभाष्यकारः |
केचिद्वन्ति यत्पतञ्जलिरुपाधिरासीदिति, अपि चानेकाः पतञ्जलय आसन्, अस्य प्रमाणमिदं यद्महाभाष्यं शुङ्गकाले लिखितमासीत् किन्तु योगदर्शनस्तु भारतथुधात्पूर्वमासीत् तदैव व्यासेन भाष्यं रचितम्
विशालकाये महाभाष्येऽपि भगवतः पतञ्जलेः इतिवृत्तम् ईषदुपलभ्यते । अतः पतञ्जलेः देशविषये “इदम्-इत्थम्” इत्येवं वक्तुं न शक्यते । तथापि महाभाष्ये “विभाषा साकाङ्क्षे” इति सूत्रव्याख्यावसरे “अभिजानासि देवदत्त ! कश्मीरान् गमिष्यामः तत्र सक्तून् पास्यामः” इत्युदाहरणबलेन इदं प्रतीयते यत् पतञ्जलेः जन्मभूः कश्मीरदेशः स्यादिति । महाभाष्यस्य उदाहरणैः इदमपि ज्ञायते यत् पतञ्जलिः आधिक्येन पाटलिपत्रनगरे वासञ्चकार । ततश्च सः भारतस्य दक्षिणपूर्वदिग्भागे महाभाष्यस्य प्रचारप्रसाराय मथुरायां, वाराणस्यां, पाटलिपुत्रे, साकेते, कौशम्ब्यां च प्राचरत् इति प्राक्तनभारतीयैतिह्यानुशीलनेन ज्ञायते ।
पतञ्जलेः देशसम्बद्धः अपरः तर्कः अपि प्राप्यते यथा - पतञ्जलेः देशकालविषये दृढ: मानदण्ड: विद्यते । अस्य देशः 'गोनर्दः' इति ज्ञायते यतः तेन एव उच्यते - 'गोनर्दीयस्त्वाह' इति । तत्र भाष्ये 'पुष्यमित्रं याजयामहे' इति दत्तात् उदाहरणात् पतञ्जलिः पुष्यमित्रस्य पुरोहितः इत्यपि केचन वदन्ति । पुष्यमित्रस्य प्रधानभूता राजधानी पाटलीपुत्रम् आसीत् । तथापि अयोध्या उपराजधानी आसीत् इति वदन्ति इतिहासकाराः । अतः गोनर्द(गोण्डा)देशवासिनः पतञ्जलेः पुष्यमित्रेण सह सम्बन्धः स्यात् एव | पतञ्जलिः क्रि०पू० २ शतके आसीत् इति पण्डिताः मन्यन्ते ।