रक्षाबन्धनम्
From Wikipedia, the free encyclopedia
रक्षाबन्धनं ( ( शृणु) /ˈrkʃhɑːbənðənəm/) (हिन्दी: रक्षाबन्धन, आङ्ग्ल: Raksha Bandhan) श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः । मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति । आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।
त्वरिततथ्यानि रक्षाबन्धनम्, व्यावहारिकनाम ...
रक्षाबन्धनम् | |
---|---|
रक्षायाः पर्व | |
व्यावहारिकनाम | रक्षाबन्धनम् |
इतर नामानि | श्रावणीपूर्णिमा, उपाकर्म, बळेव, रामराखी, चूड़ाराखी, लूम्बा |
वर्गः | धार्मिकः |
दिनाङ्कः | श्रावणमासस्य पूर्णिमा |
आचरणानि | एकदिनम् |
रीतयः | भ्रातुः हस्ते रक्षाबन्धनं, यज्ञोपवीतोत्सर्गः, तर्पणविधिः, दानम् |
पिदधातु