निरुक्तम्
From Wikipedia, the free encyclopedia
निरुक्तं षड् वेदाङ्गेषु अन्यतमम् । निरुक्तं निघण्टोर्महत्त्वपूर्णा टीकाऽस्ति । निरुच्यते निश्शेषेण उपदिश्यते तत् तदर्थावबोधनाय पदजातं यत्र तत् निरुक्तमिति कथ्यते । निरुक्तं यस्मिन्नाधारे प्रवृत्तं भवति — अर्थात् प्रत्येकं संज्ञापदं धातुना व्युत्पन्नोऽभवत् इत्याधारस्तु नितान्तं वैज्ञानिकमस्ति । अस्यैव सम्प्रति नामास्ति ‘भाषाविज्ञानम्' । अस्योन्नतिः पाश्चात्यजगति शतवर्षाभ्यन्तरे अभवत् । त्रिसहस्रवर्षं प्राग् वैदिकाः ऋषयः अस्य शास्त्रस्य सिद्धान्तानां वैज्ञानिकरीत्या निरूपणं कृतवन्तः । भाषाशास्त्रस्य इतिहासे भारतवर्षमेव अस्य मूलोद्गमस्थानमस्ति । निरुक्तस्य आरम्भेऽस्य विषयस्य येषां नियमानां प्रतिपादनं समुपलब्धं भवति, तत्तु विशेषरूपेण महनीयमस्ति।
निघण्टुग्रन्थस्य भाष्यमेव निरुक्तमित्युक्तं हि । उभयोः ग्रन्थयोः गणना वेदाङ्गे़षु क्रियते निरुक्तनाम्ना । यतो हि - अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम् - इत्युक्तत्वात् । अपि च एकैकस्य पदस्य सम्भाविता अवयवार्थाः यत्र निःशेषेण उच्यन्ते तदपि निरुक्तम् । एवंविध लक्षणेन निघण्टुनिरुक्तयोः गणना भवति निरुक्तनाम्ना ।