श्रीरामकृष्णपरमहंसः
भारतीय रहस्यवादी तथा धार्मिक प्रचारक (१८३६–१८८६) २. / From Wikipedia, the free encyclopedia
श्रीरामकृष्णपरमहंसः (बाङ्गला: শ্রী রামকৃষ্ণ পরমহংস, श्री रामकृष्णो परमोहंसो; पूर्वाश्रमस्य नाम गदाधर चट्टोपाध्याय[2])(१८ फेब्रुवरी, १८३६ - १६ अगष्ट्, १८८६) भारते जन्म कश्चन महान् धर्मोपदेशकः।[3] पश्चिमवङ्गराज्यस्य हुगलिमण्डले कामारपुकुरनामके ग्रामे १८३६ क्रिस्त्वब्दे फेब्रुवरी मासस्य अष्टादशे दिने अयं जनिमलभत। क्षुदिरामनामकः ब्राह्मणः अस्य पिता, माता तु चन्द्रमणिः। पितरौ तस्य गदाधर इति नाम अकुरुताम्। बाल्य एवायं स्वकीयासु चेष्टासु असाधारणीं प्रतिभां प्रकटयन्नवर्तत। स्वामिविवेकानन्दस्य गुरुः आसीत् सः।[4][5][6] एतौ द्वाऽपि बङ्गनवजगरणस्य[7] तथा विंशशताब्द्याः हिन्दुनवजागरणस्य[8][9] अग्रगण्यौ । अनेकान् शिष्यान् अध्यात्ममार्गे अग्रे अनयत् रामकृष्णः । तस्य शिष्यसमाजे, भक्तसमाजे च सः भगवतः अवताररूपेण कल्पितः आसीत्[10] ।
रामकृष्णः परमहंसः | |
---|---|
हिन्दुधर्मगुरुः | |
बेलुरमठे श्रीरामकृष्णपरमहंसस्य मूर्तिः | |
जन्म | (१८३६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-१८)१८, १८३६ |
जन्मस्थानम् | कामारपुकुर, हुगलि, पश्चिमवङ्गराज्यम्, भारतम् |
पूर्वाश्रमस्य नाम | गदाधर चट्टोपाध्याय |
मृत्युः | १६ १८८६(१८८६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-१६) (आयुः ५०) |
मृत्युस्थनम् | काशीपुर उद्यानबाटी, कोलकाता, पश्चिमवङ्गराज्यम्, भारतम् |
गुरुः | भैरवी ब्राह्मणी, तोतापुरी, गोविन्द राय |
दर्शनम् | अद्वैतवेदान्तः, भक्तिः |
सम्मानम् | परमहंसः |
उक्तिः | আমার ধর্ম ঠিক, আর অপরের ধর্ম ভুল – এ মত ভাল না। ঈশ্বর এক বই দুই নাই। তাঁকে ভিন্ন ভিন্ন নাম দিয়ে ভিন্ন ভিন্ন লোকে ডাকে। কেউ বলে গড, কেউ বলে আল্লাহ, কেউ বলে কৃষ্ণ, কেউ বলে শিব, কেউ বলে ব্রহ্ম। যেমন পুকুরে জল আছে – একঘাটের লোক বলছে জল, আর-একঘাটের লোক বলছে ওয়াটার, আর-একঘাটের লোক বলছে পানি – হিন্দু বলছে জল, খ্রীষ্টান বলছে ওয়াটার, মুসলমান বলছে পানি, - কিন্তু বস্তু এক। মত-পথ। এক-একটি ধর্মের মত এক-একটি পথ, - ঈশ্বরের দিকে লয়ে যায়। যেমন নদী নানাদিক থেকে এসে সাগরসঙ্গমে মিলিত হয়।[1] |
पादटीका | |
तादात्विकः विद्याभ्याससम्प्रदायः अस्मै नारोचत। अतः स विद्यालयगमने अनुत्सुकः आसीत्। सहचरैस्साकं ईस्वरभक्तिपरासु क्रीडासु संलग्नः कालमनयत्। तस्य भ्राता रामकुमारः जन्मग्रामात्तं कल्कत्तानगरं नीतवान्। तत्र दक्षीणेश्वरे कस्मिंश्चित् कालीक्षेत्रे गदाधरः अर्चकोऽभवत्[2] । सदापि ईश्वरचिन्तायां निलीनस्य गदाधरस्य शरीरसंस्कारेऽपि श्रद्धा नाऽसीत्। "देहि मे दर्शन"मिति विलपन् देवालयाङ्कणे लुठन्,चेष्टाश्च प्रदर्शयन्नयं जनैः उन्मादी इत्यमन्यत। लोकमुखात् स्वपुत्रमुन्मादिनं श्रुत्वा माता तं जन्मग्राममानिनाय, तस्य विवाहमप्यकारयञ्च। तेनैव निर्दिष्टा शारदामणि नामिका बालिका एवं तस्य धर्मपत्नी अभवत्।
पश्चिमवङ्गस्य लघु लघु ग्रामेऽपि तेन प्रदत्ताः उपदेशाः अतिप्रसिद्धाः आसन् । १८८६ तमे वर्षे रामकृष्णस्य प्रयाणस्य अनन्तरं अनुगामिनः तस्य कार्यमग्रे नीतवन्तः । एतेषाम् अनुगामिनां नेतृत्वं स्वामी विवेकानन्दः कृतवान् [11]। विवेकानन्दः रामकृष्ण मिशन् इति एकां धर्मीयसंस्थां निर्मितवान्[11] । रामकृष्णान्दोलनं भारतस्य अन्यतमं नवजागरणान्दोलनम् [12]। रामकृष्ण मिशन्-संस्थायाः भारते तथा आ विश्वे १६६ शाखाः(२००८ तमवर्षे) विद्यामानाः सन्ति । अस्याः संस्थायाः प्रधानकार्यालयः पश्चिमबङ्गराज्यस्य हावडानगरस्य बेलुर मठे अवस्थितः[13] ।