वैशेषिकदर्शनम्
From Wikipedia, the free encyclopedia
वैशेषिकदर्शनं भारतीयदर्शनेषु अन्यतमम् । सकलदर्शनापेक्षया वैशेषिकदर्शनं प्राचीनम् । दर्शनमेतत् सर्वशास्त्रोपकारकम् अस्ति। एतस्य दर्शनस्य प्रवर्तकः कणादः। कश्यपवंशोत्पन्नः एषः 'काश्यपः' इत्यपि ख्यातः । अयं तु स्वजीवननिर्वाहं कुर्वन् ज्ञानभण्डारात्मकमेतच्छास्त्रं रचितवान् । एतच्छास्त्रं न केवलं भारतदेशे, अपि तु सर्वत्र प्रपञ्चे विराजते । महात्मा कणादः प्रकृत्या स्वयं दरिद्रः सन् क्षेत्रे पतितानन्नकणान् भुक्त्वा स्वजीवननिर्वाहं कृतवान् इत्यतः अस्य शास्त्रस्य ’कणादशास्त्रम्’ इति व्यवहारः । अन्यदपि नाम शास्त्रस्यास्य भवति वैशेषिकदर्शानम् । यतः अस्मिन् दर्शने विशेषाख्यः कश्चित् पदार्थः स्वीक्रियते । कणादात् ऋते केनापि पदार्थत्वेन विशेषः न स्वीक्रियतॆ । दर्शनस्यास्य अपरं नाम औलूक्यदर्शनम् इति । यतः कणादस्य पितुर्नाम भवति उलूकऋषिरिति । उलूकस्यापत्यम् औलूक्यम् । गौतममतानुसारं कणादेनापि षोडशप्रमाण-प्रमेयादिपदार्थाः स्वीक्रियन्ते । एतेषां तत्त्वज्ञानेन मोक्षः सिध्यति । द्रव्यगुणादीनामत्यन्तं सुव्यवस्थितं रूपम् एतेषां साधर्म्यवैधर्म्याभ्यां विशिष्टं वर्णनं यथा कणादेन कृतं तथा अन्यस्मिन् दर्शने न प्राप्यते । अनेनापि विशेषेण अस्य दर्शनस्य वैशेषिकदर्शनम् इति संज्ञा । अस्य वैशेषिकनामकरणस्य यद्यपि विदुषां प्रतिपादितानि बहूनि कारणानि विद्यन्ते तथापि विशेषाभिधस्य पदार्थस्य प्रतिपादनादिदं दर्शनं वैशेषिकमित्युच्यते । बौद्धग्रन्थैर्विज्ञायते यत् जैनबौद्धदर्शनयोः उदयात् पूर्वमपि इदं दर्शनं सुप्रचलितम् आसीत् । जैनतत्त्वमीमांसाया आधारस्तु वैशेषिकोक्तेषु पदार्थेष्वेवाश्रितः प्रतीयते । एतद्दर्शनचिन्तनस्य न्यायदर्शनचिन्तनस्य च विशेषभेदः न दृश्यते। लोके स्थिताः पदार्थाः सप्तधा विभक्ता अत्र । एतस्य दर्शनस्य मुख्यं प्रतिपाद्यं निःश्रेयससिद्धिः (मोक्षः)। पदार्थाः निःश्रेयससाधनभूताः ।