वल्लभाचार्यः
From Wikipedia, the free encyclopedia
वल्लभाचार्यः वल्लभः इत्यपि ख्यातः। सः कृष्णाश्रितं पुष्टिमार्गं ब्रज् प्रदेशे प्रख्यापितवान्। [1] तस्य सिद्धान्तः शुद्धाद्वैतः इति ख्यातः [2][3] वल्लभाचार्यः तेलुगुब्राह्मणकुटुम्बे जन्म प्राप्तवान्। तस्य पितरौ मुस्लिं जनानाम् आक्रमणकारणतः वाराणसीतः चम्पारण्यम् आगतौ। [4] वल्लभः बाल्यकाले एव वेदान् उपनिषदः च पठित्वा ततः परं २० वर्षाणि यावत् आभारतम् अटितवान्। [4] सः भक्तिमार्गस्य प्रमुखः नायकः अभवत्। वल्लभाचार्यस्य शिष्यैः लिखिते वल्लभाचार्यचरिते वल्लभाचार्यः रामानुज-मध्वाचार्यप्रभृतीनां शिष्यान् वादे पराजितवान् इति उल्लेखः दृश्यते। [4] सः पुष्टिमार्गस्य प्रवर्तकः आसीत्। वेदान्ततत्वात् स्वयं ज्ञानं प्राप्य सः पुष्टिमार्गम् आरब्धवान्। सः वैराग्ययुतं जीवनं मठेषु वासं च न अङ्गीकृतवान्। तत्स्थाने कृष्णस्य उपासनया मोक्षं गृहस्थोऽपि प्राप्तुं शक्नोति इति प्रत्यपादयत्। अस्य विचाराः उत्तरप्रदेशस्य पश्चिमभागे राजस्थाने मध्यप्रदेशे च प्रसृताः।[5] विष्णुस्वामिना सह वल्लभाचार्यस्य सम्बन्धः आसीत्।[6].[7]
वल्लभाचार्यः | |
---|---|
जन्मतिथिः | १४७९ |
जन्मस्थानम् | चम्पारण्यम्, छत्तीसगढराज्यम् |
मृत्युतिथिः | १५३१ |
मृत्युस्थानम् | वाराणसी |
तत्त्वचिन्तनम् | शुद्धाद्वैतम्, पुष्टिमार्गः |
सः अनेकान् ग्रन्थान् अरचयत्। तेषु अनुभाष्यम्(ब्रह्मसूत्रस्यभाष्यम्), षोडशग्रन्थः, भागवतभाष्यम् च प्रसिद्धम्। वल्लभाचार्यस्य कीर्तनानि बालकृष्णस्य, यशोदायाः च माहात्म्यं वर्णयन्ति। [5] वल्लभाचार्यसम्बद्धानि वस्तूनि ब्रजप्रदेशे नाथद्वारा इत्यत्र सङ्ग्रहीतानि सन्ति।[5]