वेदः
चतुर्वेदाः। सनातनधर्मस्य आधारभूतः ग्रन्थः / From Wikipedia, the free encyclopedia
वेदः स्वरूपभेदात् त्रिविधः — ऋग्वेदः, यजुर्वेदः सामवेदश्चेति । यत्रार्थवशेन पादव्यवस्थाऽस्ति तेषां छन्दोबद्धानां मन्त्राणां नाम ‘ऋक्’ इति वेद्यम् । ऋचां समूह एव ‘ऋग्वेद' इति पदेन व्यवह्रियते । यजुः इत्येतत्पदं यज् धातोः उसि प्रत्यये कृते निष्पद्यते । यस्मिन् वेदे यज्ञयागादिक्रियाकलापानुरोधेन मन्त्राणां सन्निवेशोऽस्ति स ‘यजुःवेद' इति निगद्यते । यत्र गीतिरूपा मन्त्राः विद्यन्ते स उपासनाकाण्डपरो वेदः ‘सामवेद' इति गीयते । मन्त्राणां त्रिविधत्वात् वेदाः ‘त्रयी' इति नाम्ना प्रसिद्धाः सन्ति । मन्त्राणां समूहः ‘संहिता' इत्येतेन व्यपदेशेन व्यपदिश्यते । यज्ञानुष्ठानं दृष्टौ निधाय विभिन्नर्त्विजां कृते संहितानां सङ्कलनं वेदव्यासश्वकार । मन्त्रसंहितानां सङ्कलनं चतुविधतया कृतं, तस्मात् संहिताः सन्ति चतस्रः - ऋक्संहिता, यजुःसंहिता, सामसंहिता, अथर्वसंहिताश्चेति । अत एव वेदाश्चत्वारः स्मृताः ।
एकैवासीद् यजुरवेदः चतुर्धाः व्यभजत् पुनः ||- गरुडपुराण | संरचनागत स्वरुपेण वेदाः त्रयीति शब्देन कथ्यते | वेदत्रयी-ऋक्सामयजुरेव च | येतन्मण्डलं तपति ......स ऋचां लोकः| .......तानि सामानि स साम्नां लोकः | ........स यजुषां लोकः | इति शतपथे मण्डलब्राह्मणे | चत्वारः वेदाः भवन्ति । ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति । एकैकस्यापि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इत्येवं विभागाः सन्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभावतां ऋषीणां योगदानानि भवन्ति । एकैकस्यापि सूक्तस्य ऋषिः, छन्दः, देवता इति त्रितयमस्ति । संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । भारते धर्मव्यवस्था वेदायत्तैव । वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया । श्रुतिस्मृत्योर्विरोधे तु श्रुतिरेव गरीयसी । न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि । प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते । मन्त्रश्च ब्राह्मणश्चैव द्वावेतौ वेदसंज्ञकौ | कण्ठं भित्वाविनिर्यातौब्रह्मण उत्तमांगतः|| इति| प्रधानतया वेदो द्विविधः मन्त्ररूपो ब्राह्मणरूपश्च । मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूप बोधकतया वैदिकविधिप्रयोगविवरणया च प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूपं विवेचयन्तो वेदभाग आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्युच्यते । संहिताभागः ब्रह्मचारिणामुपयोगी, ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।
अनादिनिधनाः वेदाः ब्रह्मणः चतुर्भ्य मुखेभ्यः निःस्सृता इति प्राक्तनैः निरूपितम् । अकारात् भूः ऋक्, उकारात् भुवः यजुः,मकाराच्च स्वः सामः ,इति च | त्रयीं तिस्रो वृत्तिः त्रिभुवनमथो त्रीनपि सुरानकाराद्यैः वर्णै .....इति पुष्पन्ताचार्यै ओंकारवर्णनप्रसंगे |