उपनिषद्
From Wikipedia, the free encyclopedia
उपनिषद् पराविद्या इति पदेन व्यपदिश्यते । वेदान्तिभिः उपनिषद् इत्य आख्यायते । उपनिषच्छब्दस्य रहस्यमर्थः, अध्यात्मविद्यारहस्यप्रतिपादकाः वेदभागाः उपनिषदः कथ्यन्ते । तासु महर्षयः आध्यात्मिक्या विद्यया गूढतमानां रहस्याणां विशदतया विचारं कुर्वाणाः प्राप्यन्ते । भारतीयदर्शनसाहित्ये सन्ति त्रयः। प्रस्थानग्रन्थाः । ते वेदान् अवलम्बमानाः मानवजीवनस्य चरमं लक्ष्यं तत्प्राप्तिसाधनञ्च उपदिशन्ति । भारतीयविचारशास्त्रस्य श्रेष्ठोपजीव्यग्रन्थत्वादुपनिषदः प्रस्थानत्रय्यां प्रथमप्रस्थानत्वेन गृह्यन्ते। श्रीमद्भगवद्गीता द्वितीयं प्रस्थानमिति। गीतायाः द्वितीयप्रस्थानत्वम् तस्यामेव प्रकटितम् अस्ति। यथा -
'सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः।
पार्थो वत्सः सुधीर्भोत्ता दुग्धं गीतामृतं महत्।।'
बादरायणव्यासप्रणीतं ब्रह्मसूत्रं तृतीयप्रस्थानमस्ति । तत्र आपाततो विरोधिभूतानाम् उपनिषद्वाक्यानां समन्वयस्तथा कृतः, येन ज्ञातं स्यात् तेषां सर्वेषामपि वाक्यानां ब्रह्मनिष्ठत्वम्। अथ च तत्र तार्किकाणां युक्तयः अपि प्राबल्येन निराकृताः सन्ति । भारतीयाः वैदिकधर्मग्रन्थाः, दर्शनानि च इमामेव प्रस्थानत्रयीमवलम्बन्ति । उपनिषदां गीताब्रह्मसूत्रयोराश्रयप्रदायिनीत्वात् ताः सन्ति महनीयतमाः ।