आरण्यकम्
From Wikipedia, the free encyclopedia
आरण्यम् उपनिषद्वद् ब्राह्मणानां परिशिष्ट-ग्रन्थ इव अस्ति। आरण्यकेषु ब्राह्मणग्रन्थानामिव सामान्यप्रतिपाद्यविषयेभ्यः भिन्नविषयाणां प्रतिपादनं सर्वत्र विद्यमानं प्राप्यते । पद्मपुराणस्य विज्ञानारण्यकशब्दोऽपि आरण्यकस्वरूपस्य परिचायकोऽस्ति । अारण्यकं विज्ञानस्य, विशिष्टज्ञानस्य, अध्यात्मज्ञानस्य वा बोधको ग्रन्थोऽस्ति, इत्यप्यनेन शब्देन सङ्केतो भवति।
सायणाचार्यस्य मते ग्रन्थस्यस्य आरण्ये पाठ्यत्वेन 'आरण्यकम्' इति नामकरणं सार्थमेवेति । यथा-
'अरण्याध्ययनादेतद् आरण्यकमितीर्यते।
अरण्ये तदधीयीतेत्येवं वाक्यं प्रवक्ष्यते ॥'[1]
आरण्यकस्य मुख्यप्रतिपाद्यविषयः न केवलं यज्ञ एवास्ति, प्रत्युत यज्ञ-यागाद्यभ्यन्तरे विद्यमानस्य आध्यात्मिकतथ्यस्य मीमांसा अप्यस्ति । यज्ञीयानुष्ठानेन सह तदनन्तर्गतदार्शनिकविचारः अप्यस्य मुख्यविषयोऽस्ति । संहिता-मन्त्रेषु यस्याः विद्यायाः सङ्केतमात्रम् एवोपलब्धं भवति, तस्याः विश्लेषणम् अत्रास्ति । अथर्ववेदस्य न किमप्यारण्यकमुपलब्धमस्ति । अनेन वेदेन सम्बद्धाः या उपनिषदः सन्ति, ताः कस्याप्यारण्यकस्यांशो न भूत्वा प्रारम्भादेव स्वतन्त्रग्रन्थरूपेण विद्यमानाः सन्ति ।