अग्निः
From Wikipedia, the free encyclopedia
अग्निः ( ( शृणु) /ˈəɡnɪhɪ/) (हिन्दी: अग्नि, आङ्ग्ल: Fire) पञ्चभूतेषु अन्यतमः तथा तेजसः अभिमानिदैवतम् । अयं भगवतः मुखात् समुत्पन्नः । दक्षप्रजापतेः आत्मजा स्वाहा अग्निदेवस्य पत्नी । इक्ष्वाकुवंशसमुद्भूतस्य दुर्योधनस्यात्मजा सुदर्शना अस्य अपरा पत्नी । अर्जुनस्याश्रये खाण्डववनं दग्धवान् । तदवसरे अग्निः अर्जुनाय कपिध्वजोपेतं रथं,गाण्डीवधनुः,अक्षयतूणीरञ्च प्रायच्छत् । अग्निना एव श्रीकृष्णाय चक्रायुधं प्रदत्तम् । अयं भृगुमुनेः शापकारणेन सर्वभक्षकोऽभवत् । इन्द्राय यदा ब्रह्मवधदोषः सम्प्राप्तः तदा दोषस्य चतुर्षु अंशेषु एकः अंशः अग्निना स्वीकृतः । रामायणे,सीतायाः पातिव्रत्यम् अग्निना लोकमुखायोपदर्शितम् । अनलः इति तस्यापरं नाम ।| नास्ति अलं पूर्तिः अस्य भुञ्जानस्य इति कारणेन अनलः इत्युच्यते ।
त्वरिततथ्यानि
पिदधातु