मीमांसादर्शनम्
भारतीय आस्तिकदर्शनम् / From Wikipedia, the free encyclopedia
मीमांसादर्शनं ( ( शृणु) (/ˈmiːmɑːnsɑː/)) (हिन्दी: मीमांसा, आङ्ग्ल: Mīmāṃsā) भारतीयदर्शनेषु अन्यतमम् । इदं दर्शनं मूलतः अनीश्वरवादि दर्शनमस्ति । यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरूपेण स्वीकर्तुं विवदन्ते तथापि वेदानां कर्मपरताव्याख्यां धर्मस्वरूपविचारं च दृष्ट्वाऽमुष्य दर्शनस्वरूपे आपत्तिर्नास्ति । इतरदर्शनेष्विव मीमांसादर्शनेऽपि आत्मतत्त्वस्य विचारो विहितः । अतो यथा उत्तरमीमांसायाम् अर्थात् वेदान्ते आत्मेश्वरयोः प्रतिपादनात् दार्शनिकता स्थिरीक्रियते तथा पूर्वमीमांसायामपि तादृशविवेचनात् दार्शनिकताऽवश्यमेव स्वीकार्या ।
मन् धातोर्निष्पन्नो मीमांसा शब्दः पूज्यविचार-यथार्थवस्तुरूप-अनुसन्धानादिषु अर्थेषु गृह्यते । वेदस्य कर्मसिद्धान्तानुगतव्याख्या मीमांसादर्शनस्य प्रधानलक्ष्यमस्ति । दर्शनशास्त्रे वेदस्य रूपद्वयं प्रसिद्धमस्ति –कर्मकाण्डः ज्ञानकाण्डश्चेति । ज्ञानकाण्डः उत्तरमीमांसाया विषयोऽस्ति, यत्र वेदस्य ज्ञानपरकं विश्लेषणं कृतम् । किन्तु कर्मकाण्डः पूर्वमीमांसायाः विषयो वर्तते, अतः पूर्वमीमांसा एव कर्ममीमांसा इत्यपि कथ्यते ।
मीमांसदर्शने वेदविहितं कर्म एव धर्मरूपेण प्रतिपादितम् । तदेव इहलौकिकानां पारलौकिकानां च सुखानां साधनमस्ति । यदा कर्म एव सुखदुःखयोः मूलकारणं भवति तदा तस्य सूक्ष्मविश्लेषणकारकं शास्त्रं कर्ममीमांसैव उपयुक्तं प्रतीयते । मीमांसादर्शनम् अतिप्राचीनम् अस्ति । ब्राह्मणग्रन्थैः उपनिषद्ग्रन्थैश्च सूचितं भवति यत् प्राक्तनैः ऋषिभिः अनेकेषु अस्पष्टविषयेषु युक्तियुक्ताः विचाराः प्रस्तुताः । ते कर्ममीमांसाया आधारतत्त्वरूपाः सन्ति ।
मीमांसादर्शनस्य सर्वाधिकं महत्त्वपूर्णं तत्त्वं धर्मविचारोऽस्ति । धर्मस्य आधारशिला कर्मकाण्डम् आधारीकृत्य तिष्ठति । उत्तरमीमांसाम् अतिरिच्य चार्वाक-जैन-बौद्धैः वैदिककर्मकाण्डस्य खण्डनं कृतम् । आत्मनो नित्यता इतरवैदिकदर्शने यथा स्वीक्रियते तथैवात्रापि अभीष्टा वर्तते । मीमांसादर्शनस्य मतानुसारं मृत्यूत्तरमपि आत्मा स्वकीयानां शुभाशुभकर्मणां फलानि प्राप्नोति । मीमांसायां 'स्वर्ग' नामकस्य स्वतन्त्रतत्त्वस्य व्याख्या कृताऽस्ति । यतो हि वैदिककर्मकाण्डेषु प्रवृत्तेर्मूलाधारः स्वर्ग एवास्ति । मृत्योरनन्तरं स्वर्गप्राप्तिर्भवति । स्वर्गः कः? अस्मिन् विषये तत्राेक्तम् - यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषाेपनीतं च तत् सुखं स्वःपदास्पदम् ।। इति । एतत्कृते 'अपूर्व'स्य सिद्धिरपि मीमांसकैः कृता यतो हि कर्मणि तु जीवितावस्थायामेव क्रियन्ते, किन्तु स्वर्गादीनां प्राप्तिर्मृत्योरनन्तरं भवति । कर्मणि सम्पन्ने सति तदुत्पन्नम् अपूर्वम् आत्मनि अवतिष्ठते तदेव च मृत्योरनन्तरं स्वर्गादि प्रापयति ।
जीवनस्वर्गयोरन्तराले कर्मकाण्डजन्यम् अपूर्वमेव सेतुरूपमस्ति । अपूर्वमेव पापपुण्ययोराशयः वर्तते । वेदः कर्मविधानं करोति । वेदाः अपाैसरुषेयाः सन्ति । अतस्तत्र काम-क्राेध-लाेभ-माेह-मात्सर्यादयः पुरूषदाेषा न सन्ति । अतः वेदविहितं कर्म एव धर्मः । अयमेव मीमांसायाः मान्यः सिद्धान्तोऽस्ति । मीमांसा स्वीकरोति यत् इदं जगत् सत्यमेव अस्ति । अस्य मिथ्यात्वं निराधारकल्पना वर्तते । मीमांसाशास्त्रस्य सूत्रमारः महर्षिः जैमिनिः । अस्मिन् शास्त्रे धर्मानुष्ठानेनैव अभिमतफलसिद्धिर्भविष्यतीति मतम् । अत्र वैदिकयज्ञानामेव मुख्यधर्मत्वं स्वीक्रियते । धर्मानुष्ठानं तु श्रुतिस्मृतिपुराणद्यनेकधर्मग्रन्थेषु प्रसिद्धमस्ति । धर्मस्य लक्षणं किम् ? धर्मे प्रमाणं किम् । इत्यादिशङ्कानां समाधानं पूर्वमीमांसाशास्त्रादेव सिद्धं भवति । एतच् शास्त्रं षाेडशाध्यायात्मकं वर्तते । तत्र द्वादशाध्यायाः प्रसिद्धाः सन्ति । प्रत्येकस्मिन् अध्याये चत्वारः पादाः विलसन्ति । परं तृतीयेध्याये अष्टाै पादाः सन्ति, एवमेव षष्ठे दशमे च ।