छन्दश्शास्त्रम्
From Wikipedia, the free encyclopedia
छन्दः शास्त्रस्य इतिवृत्तम् मह्त्त्वपूर्णम् अस्ति । छन्दः शास्त्रस्य परम्परायां येषां महद्योगदानं तेषां सर्वेषाम् आचार्याणां विवरणं रामानुजाचार्यस्य गुरुणा श्रीमता यादव प्रकाशेन एकादश शताब्द्यां पिङ्गलसूत्र इति ग्रन्थस्य समाप्तौ एकःमहत्त्वपूर्णः श्लोकः लिखितः। अस्य श्लोकस्य गङ्गादास प्रणीतायां छन्दोमञ्जर्याः भूमिकायां डॉ० ब्रह्मानन्दत्रिपाठिना प्रयोगो विहितः। यथा-
छन्दो ज्ञानमिदं भवाद्भगवतो लेभे गुरूणां गुरुस्,
तस्माद् दुश्च्यवनस्ततो सुरगुरुर्माण्डव्यनामा तत:l
माण्डव्यादपि सैतवस्तत ऋषिर्यास्कस्तत:पिङ्गलस्,
तस्येदं यशसा गुरोर्यदि धृतं प्राप्यास्मदद्यै: क्रमात् l l
अत्र परामर्शः दीयते यत्, छन्दश्शास्त्रम्-आख्यः एषः लेखः [[::छन्दः|छन्दः]]-आख्ये लेखे उत तस्य लेखस्य कस्मिँश्चित् भागे विलीनः भवेदिति । (सम्भाषणम्) |
छन्द शास्त्रस्य आचार्याणां क्रमः एवमस्ति- क्रमाङ्कितसूच्यंशाः • दुश्च्यवनः(इन्द्रः) • शुक्राचार्यः • माण्डव्यः • सैतव • यास्कः • पिङ्गलः
अथ च युधिष्ठर मीमांसकेन वैदिक छन्दोमीमांसायाम् आचार्याणां क्रमः एवं वर्णितः।
छन्दशास्त्रमिदं पुरा त्रिनयनाल्लेभेगुहोनादित:।
तस्मात् प्राप्य सनत्कुमारकमुनिस्तस्मात् सुराणां गुरु:।
तस्माद्देवपतिस्तत:फणिपतिस् तस्माच्च सत्पिङ्गल:।
तच्छिष्यैर्बहुभिर्महात्मभिरथो मह्यां प्रतिष्ठापितम् ।
छन्द शास्त्रस्य आचार्याणां क्रमः एवमस्ति-