अर्थः
From Wikipedia, the free encyclopedia
अथ कामपूर्तेः सुखार्जनस्य वा यद् यत् साधनं तत् तद् अर्थशब्देन अभिधीयते । यथोक्तं कामसूत्रे वात्स्यायनेन –‘विद्याभूमिहिरण्यपशुधान्य भाण्डोपस्करमित्रादीनाम् अर्जनम् अर्जनस्य विवर्धनम् अर्थः ।’ (का. सू. १-२-८)इति । वस्तुतः अस्मिन् सूत्रे निर्दिष्टानि वस्तूनि अर्थस्यैव उपकरणानि परंतु तत्र धनस्य प्राधान्यात् प्राधान्येन व्यपदेशः इति न्यायेन धनमेव अर्थः इति सामान्यतया उच्यते । धनैषणा तु स्वाभाविकी एव मनुष्याणाम् । किन्तु तत्र 'अगर्हितेन कर्मणा धनान्यादाय गार्हस्थ्ये वर्तेत्’ इत्यादिष्टम् । मनुनाप्युक्तम् –‘सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्’ इति । यथा अर्जने निर्बन्धः तथा व्यये ऽपि नियन्त्रणरुपं मार्गदर्शनं कृतं वर्तते । उक्तं च 'तेन त्यक्तेन भुञ्जीथाः (ई.उ.१) इति । समन्ततः अवस्थितान् अर्थार्थिनः दानेन संतोष्य धनोपभोगः कार्यः, सा एव कृतार्थता अर्थस्य, इत्यासीत् धारणा । कालिदासेनापि रघुवंशीयानाम् आदर्शं चारित्र्यं वर्णयता उत्तम् 'त्यागाय संभृतार्थानाम् (रघु.१-७)इति ।
एवम् अर्थस्यापि द्विविधो हेतुः । एकः व्यष्टिनिष्ठः, अपरश्च समष्टिनिष्ठः तत्र व्यष्टिनिष्ठहेतुस्तु तत्साहाय्येन सुखावाप्तिः । अनेन ये नाम भाग्यवन्तः अर्थार्जने प्राप्तयशस्काः तेषां सुखावाप्तेः विचारः अभूत् । किन्तु ये किल अर्थविहीनाः तेषां किं स्यात् । तेऽपि समाजस्य अङ्गभूता एव । संपूर्ण-समाजस्य सुखं सिसाधयिषुभिः शास्त्रकारैः अत एव दानस्य महिमा प्रगीतः । एतदर्थविहीनेभ्यः दानमेव भवति समष्टिनिष्ठो द्वितीयो हेतुः अर्थस्य । अथ अर्थविहीनाः अपि द्विविधाः । एके तु द्रव्यम् अभिलषन्तोऽपि परिस्थितिवशात् तत् संपादयितुम् अक्षमाः । अपरे पुनः समाजसेवानिरतत्वात् स्वेच्छया निष्काञ्चनत्वं वरयमाणाः । तत्र परिस्थितिनिपीडितेभ्यः दानम् अर्थनिः स्पृहेभ्यश्च आतिथ्यम् उपदिष्टं शास्त्रकारैः । दाने द्रव्यादीनाम् अन्तर्भावः । आतिथ्ये तु प्राधान्येन भोजनशयनादीनामेव समावेशः । तत्र परिग्रहस्य अनपेक्षितत्वात् । तत्र आतिथ्यं चतुर्षु ॠणेषु मनुष्य-ऋणरुपेण तथा पञ्चमहायज्ञेषु नृयज्ञरुपेण समावेश्य अतिथये अतिसम्मानस्य खलु स्थानं प्रदत्तं शास्त्रकारैः । अथर्ववेदेऽपि साङ्गरुपकम् आश्रित्य आतिथ्यस्य यज्ञेन साकं तुलना कृता उपलभ्यते । अनेन तस्य माहात्म्यम् एव द्योत्यते ।