वर्णाश्रमव्यवस्था
From Wikipedia, the free encyclopedia
वर्णव्यवस्था ब्राह्मणयुगीयसमाजे ब्राह्मण-क्षत्रिय-वैश्य-शूद्रादीनां चतुणां वर्णानां व्यवस्थयाः नाम। वैदिकयज्ञस्य सम्पादकत्वेन निर्वाहकत्वेन च ब्राह्मणस्य स्थानं चतुर्षु वर्णेषु अग्रतमम् अासीत् । ब्राह्मणेषु ये वेदशास्त्राणाम् अध्ययनशीलाः अासन्, ते मनुष्यदेवस्य महनीयाभिधानेन मण्डिताः बभूवुः।[1]
‘ये ब्राह्मणाः शुश्रुवांसोऽनूचानास्ते मनुष्यदेवाः। विद्वांसो हि देवाः।।'[2] तैत्तिरीयसंहितायां[3] ब्राह्मणः ‘प्रत्यक्षदेवः' इत्युपाधिना विभूषित आसीत् । शतपथब्राह्मणे देवताऽपि द्विधा भवति। अग्नादिहविर्भोजी देवता तथा मनुष्यदेवः ब्राह्मणः।[4] यज्ञस्य विभागद्वयमस्ति । देवेभ्यः अाहुतिस्तथा मनुष्यदेवेभ्यः दक्षिणा भवति। अनेन ते प्रसन्नो भूत्वा यजमानाय कल्याणं कुर्वन्ति।[5] राजा स्वं समग्रराज्यमपि दक्षिणारूपे दातुं शक्नोति। अभिषेकस्य अवसरे ब्राह्मणो वदति - “हे मनुष्याः अयं तव राजा अस्ति । ब्राह्मणानां राजा सोमः अस्ति'[6]। शतपथब्राह्मणस्य व्याख्यानुसारेण राजनि प्रजा अन्नस्थानीया भवन्ति[7], यत् ब्राह्मणस्तु कस्यापि भौतिकराज्ञः प्रजा एव न भवति।[8] ब्राह्मणाय अादर्शो भवति ‘ब्रह्मवर्चसी' अर्थात् वेदाध्ययनेन तेजःसम्पन्नत्वमेव ब्राह्मणत्वम् । अतो ब्राह्मणेषु स एव सर्वश्रेष्ठः वीर्यवान् भवति यः वेदज्ञो भवति । उक्तञ्च -
‘तद्ध्येव ब्राह्मणेनैष्टव्यं यद् ब्रह्मवर्चसी स्यादिति॥'[9]
‘यो वै ब्राह्मणानामनूचानतमः स एषां वीर्यवत्तमः॥[10]
ब्राह्मणस्य बलं तस्य मुखे-भाषणे, वाक्शक्त्यामेव भवति, यतस्तस्य सृष्टिः मुखादेवाभवत् -
'तस्माद् ब्राह्मणो मुखेन वीर्यं करोति॥ मुखतो हि सृष्टिः।'[11]
एवंविधानूचानब्राह्मणस्य वशे क्षत्रियाः यदा भवन्ति, तदैव राष्ट्रस्य मङ्गलं भवति । राष्ट्रे वीराः समुत्पन्नाः भवन्ति-
‘तद् यत्र ब्राह्मणः क्षत्रं वशमेति तद्राष्ट्र' समृद्धं तद्वीरवदाहास्मिन् वीरो जायते।'[12]
क्षत्रियः राष्ट्रस्य रक्षकस्तथा वैश्यस्तस्य वर्द्धको भवति । पादात्समुत्पन्नत्वेन शूद्रस्य सेवाधर्म एव प्रधानधर्म अासीत् ।