वायुः
From Wikipedia, the free encyclopedia
वायुः ( ( शृणु) /ˈvɑːjʊhʊ/) (हिन्दी: वायु, आङ्ग्ल: Air) अस्माकं जीवनस्य अत्यावश्यकं तत्त्वं वर्तते । वायुं विना जीवनम् असम्भवम् अस्ति । प्रतिदिनं वयं द्विवारं त्रिवारं वा भोजनं कुर्मः । एकस्मिन् दिवसे अपि अनेकवारं वयं जलं पिबामः । किन्तु श्वसनं वयं प्रतिक्षणं कुर्मः । जीवनाय वायुः सर्वेभ्यः जीवेभ्यः आवश्यकः वर्तते ।[1]
पृथिव्याः परितः वायूनाम् आवरणम् अस्ति । तत् आवरणं वायुमण्डलं कथ्यते । जीवनाय वायवः वायुमण्डलात् प्राप्यन्ते । सूर्यस्य हानिकारकाणां किरणानां प्रभावात् वायुमण्डलम् अस्मान् रक्षति । यदि वायुमण्डलं न भवेत्, तर्हि दिवसे सूर्यकिरणानां तापेन वयं ज्वलितुं शक्नुमः । अयं वायुराशिः उच्यते येन निवासयोग्यं पृथिव्याः तापमानं भवति ।[2]
वायुमण्डलं विभिन्नवायूनां मिश्रणम् अस्ति । एभिः वायुभिः पृथिवी आच्छादिता वर्तते । अस्मिन् वायुमण्डले मनुष्याणां जन्तूनां च जीवनाय आवश्यकवायुः ऑक्सीजन् इति प्राप्यते । पादपेभ्यः कार्बन् डाई ऑक्साइड् इति वायुः अपि वायुमण्डले प्राप्यते । वायुः वर्णहीनः, गन्धहीनः च भवति । यदा वायुः प्रवहति, तदा पवनः कथ्यते । पवनः अनुभवितुं शक्यते ।[3]