ब्रह्मा
From Wikipedia, the free encyclopedia
ब्रह्मा जगतः प्रवर्तकः । जगतः पालनकर्ता विष्णुः,संहारकर्ता शिवः तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते। किन्तु वेदान्तदर्शनस्य सर्वोच्चदिव्यसत्त्वा ब्रह्मोऽपलब्धिः योऽस्ति स तु भिन्नविषयः। ब्रह्मा अर्थात् प्रजापतिः ऋग्वेदे प्रधानदेवतात्वेन महिमामण्डितः। परन्तु संहिताकालस्य मुख्यदेवता अस्मिन् युगे गौणोऽभवत् । तथा गौणदेवता मुख्योऽभवत् । क्वचित् नवीनदेवतायाः परिकल्पनाऽप्यस्ति । ऋग्वेदस्य गौणदेवतासु प्रजापतिः अग्रगण्योऽस्ति । ऐतरेयब्राह्मणस्यारम्भे एव विष्णोः परमदेवत्वस्य सूचना प्राप्यते - 'अग्निर्वे देवानामवमो विष्णुः परमः'।[1] रुद्राय महादेवशब्दस्य प्रयोगः ब्राह्मणग्रन्थेषु स्पष्टतया उल्लिखितोऽअस्ति। प्रजापतेः पदं तु देवानाम् अग्रस्थानीयमस्ति । प्रजापतिरेव जगतः स्रष्टा अस्ति । प्रजापतिः देवानामपि स्रष्टाऽस्ति । प्रजापतिरेवास्य भूतलस्य सकलपदार्थानां सृष्टिकर्ताऽस्ति। स एव देवताः उत्पन्नं कृत्वा तासु बलस्य विभाजनं करोति । अनेन एव उर्जाविभागेन उदुम्बरवृक्षस्य जन्म बभूव । अतः प्रजापतेः महिमा ब्राह्मणग्रन्थेषु सर्वतो महीयानस्ति ।