सम्मेदशिखरम्
From Wikipedia, the free encyclopedia
सम्मेदशिखरम् ( ( शृणु) /ˈsəmmɛdəʃɪkhərəm/) (हिन्दी: सम्मेदशिखर,आङ्ग्ल: Sammed Shikhar) इत्येतत् जैनमतानुयायिनां पवित्रतमं स्थलं वर्तते । इदं चतुर्विंशतितीर्थङ्करेषु विंशतितीर्थङ्कराणां निर्वाणस्थानं वर्तते । भारतस्य झारखण्ड-राज्यस्य गिरिडीह-मण्डले स्थितम् इदं स्थलम् । इदं स्थलं जैनधर्मस्य “महातीर्थम्” अपि कथ्यते । सम्मेदशिखरस्य भूमिः पवित्रा अस्ति । विश्वस्य महत्त्वपूर्णं जैनतीर्थम् अस्ति सम्मेदशिखरम् । अयं १३५० (४४३० फीट्) मीटरमितः उन्नतः पर्वतः अस्ति । अयं झारखण्ड-राज्यस्य उच्चतमः पर्वतः वर्तते ।